Search This Blog

Wednesday 9 November 2016

द्वादशज्योतिर्लिङ्ग,dwadasjyotirling

॥ द्वादशज्योतिर्लिङ्गस्तोत्रम् ॥

 सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
 भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १॥ 
 श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।     
  
 तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २॥ 
 अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । 
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३॥ 
 कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
 सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥ ४॥
 पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
 सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५॥
 याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
 सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६॥ 
 महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
 सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ ७॥
 सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे । 
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ ८॥
 सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः । 
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ९॥
 यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
 सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥ १०॥ 
 सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् । 
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११॥
 इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
 वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥ १२॥ 
 ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
 स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥

 ॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम् ॥ 

No comments:

Post a Comment